यो नो॒ रसं॒ दिप्स᳚ति पि॒त्वो अ᳚ग्ने॒ यो अश्वा᳚नां॒ यो गवां॒ यस्त॒नूना᳚म् ।
रि॒पुः स्ते॒नः स्ते᳚य॒कृद्द॒भ्रमे᳚तु॒ नि ष ही᳚यतां त॒न्वा॒३॒᳚ तना᳚ च ॥
रि॒पुः स्ते॒नः स्ते᳚य॒कृद्द॒भ्रमे᳚तु॒ नि ष ही᳚यतां त॒न्वा॒३॒᳚ तना᳚ च ॥
पदपाठः (Word-by-word)
यः । नः॒ । रस᳚म् । दिप्स᳚ति । पि॒त्वः । अ॒ग्ने॒ । यः । अश्वा᳚नाम् । यः । गवा᳚म् । यः । त॒नूना᳚म् ।
रि॒पुः । स्ते॒नः । स्ते॒य॒॑कृत् । द॒भ्रम् । ए॒तु॒ । नि । सः । ही॒य॒ता॒म् । त॒न्वा᳚ । तना᳚ । च॒ ॥
रि॒पुः । स्ते॒नः । स्ते॒य॒॑कृत् । द॒भ्रम् । ए॒तु॒ । नि । सः । ही॒य॒ता॒म् । त॒न्वा᳚ । तना᳚ । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने योराक्षसः नोस्माकं पित्वोन्नस्य रसं सारं दिप्सति जिघांसति यश्च अश्वानामस्मदीयानां रसं दिप्सति यश्च गवां रसं दिप्सति यश्च तनूनामस्मदीयानां शरीराणां रसं दिप्सति रिपुर्बाधकः स्तेनश्चौरः स्तेयकृत् धनस्यापहर्ता ससर्वोजनः दभ्रं हिंसां एतु प्राप्नोतु अपिच सबाधकः तन्वा स्वकीयेन शरीरेण तना च तनयेन च निहीयतां निहीनोभवतु ॥ १० ॥