ए॒त उ॒ त्ये प᳚तयन्ति॒ श्वया᳚तव॒ इन्द्रं᳚ दिप्सन्ति दि॒प्सवो॑दा᳚भ्यम् ।
शिशी᳚ते श॒क्रः पिशु᳚नेभ्यो व॒धं नू॒नं सृ᳚जद॒शनिं᳚ यातु॒मद्भ्य᳚ः ॥
शिशी᳚ते श॒क्रः पिशु᳚नेभ्यो व॒धं नू॒नं सृ᳚जद॒शनिं᳚ यातु॒मद्भ्य᳚ः ॥
पदपाठः (Word-by-word)
ए॒ते । ऊं॒ इति᳚ । त्ये । प॒त॒य॒न्ति॒ । श्व॑या᳚तवः । इन्द्र᳚म् । दि॒प्स॒न्ति॒ । दि॒प्सवः᳚ । अदा᳚भ्यम् ।
शिशी᳚ते । श॒क्रः । पिशु᳚नेभ्यः । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि᳚म् । या॒तु॒मत्॑भ्यः᳚ ॥
शिशी᳚ते । श॒क्रः । पिशु᳚नेभ्यः । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि᳚म् । या॒तु॒मत्॑भ्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
त्ये ते एते राक्षसाश्वयातवः श्वभिः परिगतभूतैः हिंसन्तः श्वभिः सह यान्तोवा पतयन्ति पतन्ति येदिप्सवोजिघांसवः सन्तः अदाभ्यं अहिंस्यमिन्द्रं दिप्सन्ति जिघांसन्ति तेभ्यः पिशुनेभ्यः पिशुनान्कपटान् हन्तुं शक्रः इन्द्रोवधमायुधं अशनिरूपं शिशीते तीक्ष्णीकरोति यातुमभ्द्योराक्षसेभ्योनूनं क्षिप्रं अशनिं सृजत् विसृजतु हननार्थम् ॥ २० ॥