इन्द्रा᳚सोमा॒ सम॒घशं᳚सम॒भ्य१॒᳚घं तपु᳚र्ययस्तु च॒रुर᳚ग्नि॒वा{4} इ᳚व ।
ब्र॒ह्म॒द्विषे᳚ क्र॒व्यादे᳚ घो॒रच᳚क्षसे॒ द्वेषो᳚ धत्तमनवा॒यं कि᳚मी॒दिने᳚ ॥
ब्र॒ह्म॒द्विषे᳚ क्र॒व्यादे᳚ घो॒रच᳚क्षसे॒ द्वेषो᳚ धत्तमनवा॒यं कि᳚मी॒दिने᳚ ॥
पदपाठः (Word-by-word)
इन्द्रा᳚सोमा । सम् । अ॒घ॑शं᳚सम् । अ॒भि । अ॒घम् । तपुः᳚ । य॒य॒स्तु॒ । च॒रुः । अ॒ग्नि॒वान्॑इ᳚व ।
ब्र॒ह्म॒॑द्विषे᳚ । क्र॒व्य॒॑अदे᳚ । घो॒र॑च᳚क्षसे । द्वेषः᳚ । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒दिने᳚ ॥
ब्र॒ह्म॒॑द्विषे᳚ । क्र॒व्य॒॑अदे᳚ । घो॒र॑च᳚क्षसे । द्वेषः᳚ । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒दिने᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्रासोमौ अघशंसं अघस्यानर्थस्य शंसितारं अघमागत्य हन्तारं राक्षसं सं सहैव अभीतिश्रुतेर्योग्यक्रियाध्याहारः अभिभवतम् । सचतपुः युवयोस्तेजसातप्यमानोराक्षसः अग्निवाँइव अग्नियुक्तः अग्नौप्रक्षिप्तः चरुरिव ययस्तु यसुप्रयत्ने केवलोप्ययमाङ्पूर्वार्थोद्रष्ट- व्यः आयस्यतु आयासं प्राप्नोतु उपक्षीयतामित्यर्थः अपिच ब्रह्मद्विषे ब्राह्मणेभ्योस्मभ्यं द्वेष्ट्रे क्रव्यादे क्रव्यं मांसं भक्षयित्रे घोरचक्षसे घोरदर्शनाय परुषभाषिणे वा किमीदिने किमिदानीमिति चरते पिशुनाय द्वेषः द्वेष्यभावं अनवायं अव्यवायं अनवयवं नैरन्तर्येण यथाभवति तथा धत्तं दत्तम् ॥ २ ॥