पव᳚स्व॒ मधु᳚मत्तम॒ इन्द्रा᳚य सोम क्रतु॒वित्त᳚मो॒ मदः᳚ ।
महि᳚ द्यु॒क्षत᳚मो॒ मदः᳚ ॥
महि᳚ द्यु॒क्षत᳚मो॒ मदः᳚ ॥
पदपाठः (Word-by-word)
पव᳚स्व । मधु᳚मत्॑तमः । इन्द्रा᳚य । सो॒म॒ । क्र॒तु॒वित्॑त᳚मः । मदः᳚ ।
महि᳚ । द्यु॒क्ष॑त᳚मः । मदः᳚ ॥
महि᳚ । द्यु॒क्ष॑त᳚मः । मदः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम मधुमत्तमः अत्यन्तं माधुर्योपेतः त्वं इन्द्राय इन्द्रार्थं मदोमदकरः सन् पवस्व क्षर । कीदृशः क्रतुवित्तमः अत्यन्तं प्रज्ञायाः कर्मणोवा लंभकः महि महान् मंहनीयोवा द्युक्षतमः अत्यन्तं दीप्तः मदः मदहेतुः ॥ १ ॥