श्रवणम्

9.108.6 समानपद
य उ॒स्रिया॒ अप्या᳚ अ॒न्तरश्म᳚नो॒ निर्गा अकृ᳚न्त॒दोज᳚सा ।
अ॒भि व्र॒जं त᳚त्निषे॒ गव्य॒मश्व्यं᳚ व॒र्मीव᳚ धृष्ण॒वा रु᳚ज ॥
▶ पदपाठः (Word-by-word)
यः । उ॒स्रियाः᳚ । अप्याः᳚ । अ॒न्तः । अश्म᳚नः । निः । गाः । अकृ᳚न्तत् । ओज᳚सा ।
अ॒भि । व्र॒जम् । त॒त्नि॒षे॒ । गव्य᳚म् । अश्व्य᳚म् । व॒र्मी॑इ᳚व । धृ॒ष्णो॒ इति᳚ । आ । रु॒ज॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सोमः उस्रियाः उत्सरणशीलाः अप्याः अपइत्यन्तरिक्षनाम तस्माद्भवेश्छन्दसीति यत् अन्तरिक्षस्थाः अहिप्रभृतिभिरसुरैः अपहृत्य निहितागाः अपः अश्मनः मेघनामैतत् मेघादन्तः ओजसा बलेन निरकृंतत् निरच्छिनत् अन्तरिक्षाद्वृष्टिमकार्षीदित्यर्थः । सत्वं असुरैरपहृतं गव्यं गोसंबन्धिनं अश्व्यं अश्वेषु भवं व्रजं समूहं अभितत्निषे अभितोव्याप्नो- षि तनुविस्तारे छान्दसे लिटि तनिपत्योश्छन्दसीत्युपधालोपः । किंच हे धृष्णो शत्रुधर्ष- णशील सोम सत्वं वर्गीव कवचीव शूरः आरुज असुरानाजहि ॥ ६ ॥