श्रवणम्

9.108.11
ए॒तमु॒ त्यं म᳚द॒च्युतं᳚ स॒हस्र᳚धारं वृष॒भं दिवो᳚ दुहुः ।
विश्वा॒ वसू᳚नि॒ बिभ्र᳚तम् ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । ऊं॒ इति᳚ । त्यम् । म॒द॒॑च्युत᳚म् । स॒हस्र᳚॑धारम् । वृ॒ष॒भम् । दिवः᳚ । दु॒हुः॒ ।
विश्वा᳚ । वसू᳚नि । बिभ्र᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवः देवान् कामयमानाऋत्विजः एतं त्यं तमिमं सोममेव दुहुः दुदुहुः दुहन्ति । ग्रावाणोवत्साऋत्विजोदुहन्तीतितैन्तिरीयकब्राह्मणम् । कीदृशं सोमं मदच्युतं मदस्य प्रेरकं सहस्रधारं बहुधारं वृषभं कामानां वर्षकं विश्वा सर्वाणि वसूनि धनानि बिभ्रतं धार- यन्तं सोमं दुहन्ति ॥ ११ ॥