यस्य᳚ न॒ इन्द्र॒ः पिबा॒द्यस्य᳚ म॒रुतो॒ यस्य᳚ वार्य॒मणा॒ भगः᳚ ।
आ येन᳚ मि॒त्रावरु᳚णा॒ करा᳚मह॒ एन्द्र॒मव᳚से म॒हे ॥
आ येन᳚ मि॒त्रावरु᳚णा॒ करा᳚मह॒ एन्द्र॒मव᳚से म॒हे ॥
पदपाठः (Word-by-word)
यस्य᳚ । नः॒ । इन्द्रः᳚ । पिबा᳚त् । यस्य᳚ । म॒रुतः᳚ । यस्य᳚ । वा॒ । अ॒र्य॒मणा᳚ । भगः᳚ ।
आ । येन᳚ । मि॒त्रावरु᳚णा । करा᳚महे । आ । इन्द्र᳚म् । अव᳚से । म॒हे ॥
आ । येन᳚ । मि॒त्रावरु᳚णा । करा᳚महे । आ । इन्द्र᳚म् । अव᳚से । म॒हे ॥
सायणभाष्यम् (Sayana Commentary)
नोस्मदीयं यस्य यं सोमं इन्द्रः पिबात् पिबति । पा पाने लेट्यडागमः । यंच सोमं मरुतः पिबन्ति वा । अपिच अर्यमणा एतन्नामकेन देवेन सह भगोदेवोयं सोमं पिबति । येन सोमेन मित्रावरुण मित्रावरुणौ वयमाकरामहे अभिमुखीकुर्महे । तथा महे महते अवसे रक्षणाय येन च सोभेन इन्द्रमभिमुखीकुर्महे ससोमोभिषूयते ॥ १४ ॥