त्वं ह्य१॒᳚ङ्ग दैव्या॒ पव᳚मान॒ जनि᳚मानि द्यु॒मत्त᳚मः ।
अ॒मृ॒त॒त्वाय᳚ घो॒षयः᳚ ॥
अ॒मृ॒त॒त्वाय᳚ घो॒षयः᳚ ॥
पदपाठः (Word-by-word)
त्वम् । हि । अ॒ङ्ग । दैव्या᳚ । पव᳚मान । जनि᳚मानि । द्यु॒मत्॑त᳚मः ।
अ॒मृ॒त॒॑त्वाय᳚ । घो॒षयः᳚ ॥
अ॒मृ॒त॒॑त्वाय᳚ । घो॒षयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे पवमान पूयमान सोम द्युमत्तमः अतिशयेन दीप्तिमान् त्वं हि त्वमेव दैव्या देव- संबन्धीनि जनिमानि जन्मानि देवानित्यर्थः तानभिलक्ष्य अमृतत्वाय तेषाममरणाय अंग क्षिप्रं घोषयः शब्दायसे । घुषिरविशब्दने ण्यन्तस्य लेटि रूपं हियोगादनिघातः ॥ ३ ॥