स॒हस्र᳚धारं वृष॒भं प᳚यो॒वृधं᳚ प्रि॒यं दे॒वाय॒ जन्म᳚ने ।
ऋ॒तेन॒ य ऋ॒तजा᳚तो विवावृ॒धे राजा᳚ दे॒व ऋ॒तं बृ॒हत् ॥
ऋ॒तेन॒ य ऋ॒तजा᳚तो विवावृ॒धे राजा᳚ दे॒व ऋ॒तं बृ॒हत् ॥
पदपाठः (Word-by-word)
स॒हस्र᳚॑धारम् । वृ॒ष॒भम् । प॒यः॒॑वृध᳚म् । प्रि॒यम् । दे॒वाय᳚ । जन्म᳚ने ।
ऋ॒तेन᳚ । यः । ऋ॒त॑जा᳚तः । वि॒॑व॒वृ॒धे । राजा᳚ । दे॒वः । ऋ॒तम् । बृ॒हत् ॥
ऋ॒तेन᳚ । यः । ऋ॒त॑जा᳚तः । वि॒॑व॒वृ॒धे । राजा᳚ । दे॒वः । ऋ॒तम् । बृ॒हत् ॥
सायणभाष्यम् (Sayana Commentary)
सहस्रधारं बहुधारोपेतं बृषभं कामानां वर्षकं पयोवृधं उदकानां वर्धकं प्रियं प्रीण- यितारं तं सोमं देवाय देवसंबन्धिने जन्मने देवेभ्यस्तदर्थं अभिषुणुत ऋतजातः उदका- ज्जातोयोराजा सोमः ऋतेन वसतीवर्याख्येनोदकेन विववृधे विशेषेण वर्धते । कीदृशः देवोद्योतमानः स्तोतव्योवा ऋतं सत्यभूतः सन् बृहत् महान्तमासुनुतेति पूर्वेण समन्वयः ॥ ८ ॥