श्रवणम्

9.108.5
ए॒ष स्य धार᳚या सु॒तो॑व्यो॒ वारे᳚भिः पवते म॒दिन्त᳚मः ।
क्रीळ᳚न्नू॒र्मिर॒पामि᳚व ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । धार᳚या । सु॒तः । अव्यः᳚ । वारे᳚भिः । प॒व॒ते॒ । म॒दिन्॑त᳚मः ।
क्रीळ᳚न् । ऊ॒र्मिः । अ॒पाम्॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्यः सएषसुतोभिषुतः सोमः अव्यः अवेर्वारेभिओर्वालैः तेभ्यः पवित्रेभ्यः धारया आत्मीयया पवते कलशमभीलक्ष्य क्षरति । कीदृशः मदिन्तमः मादयितृतमः अपामिव उदकानां ऊर्मिः संघातइव क्रीळन् इतस्ततः संक्रीडमानः पवते ॥ ५ ॥