वृषा॒ वि ज᳚ज्ञे ज॒नय॒न्नम᳚र्त्यः प्र॒तप॒ञ्ज्योति᳚षा॒ तमः᳚ ।
स सुष्टु᳚तः क॒विभि᳚र्नि॒र्णिजं᳚ दधे त्रि॒धात्व᳚स्य॒ दंस᳚सा ॥
स सुष्टु᳚तः क॒विभि᳚र्नि॒र्णिजं᳚ दधे त्रि॒धात्व᳚स्य॒ दंस᳚सा ॥
पदपाठः (Word-by-word)
वृषा᳚ । वि । ज॒ज्ञे॒ । ज॒नय᳚न् । अम᳚र्त्यः । प्र॒॑तप᳚न् । ज्योति᳚षा । तमः᳚ ।
सः । सु॑स्तु᳚तः । क॒वि॑भिः᳚ । निः॒॑निज᳚म् । द॒धे॒ । त्रि॒॑धातु᳚ । अ॒स्य॒ । दंस᳚सा ॥
सः । सु॑स्तु᳚तः । क॒वि॑भिः᳚ । निः॒॑निज᳚म् । द॒धे॒ । त्रि॒॑धातु᳚ । अ॒स्य॒ । दंस᳚सा ॥
सायणभाष्यम् (Sayana Commentary)
वृषा कामानां वर्षकः अमर्त्योमनुष्यधर्मरहितः सोमः विजज्ञे विज्ञायते । किंकुर्वन् जन- यन् शब्दं ज्योतिर्वा उत्पादयन् ज्योतिषा स्वीयेन तमः प्रतपन् प्रज्वलयन् विनाशयन् प्रादुर्भवति । ततः कविभिर्मेधाविभिः स्तोतृभिः सुष्टुतः ससोमः निर्निजं निर्नेजनहेतुं मि- श्रणं गव्यं दधेधारयति । अथ त्रिधातु त्रिषु सवनेषु देवानां पोषकं यद्वा त्रयः सोमधा- रकाः द्रोणकलशादयः यस्मिन् तद्यज्ञार्थं कर्म अस्य सोमस्य दंससा कर्मणा ध्रियते खलु ॥ १२ ॥