इन्द्र᳚स्य॒ हार्दि᳚ सोम॒धान॒मा वि᳚श समु॒द्रमि᳚व॒ सिन्ध᳚वः ।
जुष्टो᳚ मि॒त्राय॒ वरु᳚णाय वा॒यवे᳚ दि॒वो वि᳚ष्ट॒म्भ उ᳚त्त॒मः ॥
जुष्टो᳚ मि॒त्राय॒ वरु᳚णाय वा॒यवे᳚ दि॒वो वि᳚ष्ट॒म्भ उ᳚त्त॒मः ॥
पदपाठः (Word-by-word)
इन्द्र᳚स्य । हार्दि᳚ । सो॒म॒॑धान᳚म् । आ । वि॒श॒ । स॒मु॒द्रम्॑इ᳚व । सिन्ध᳚वः ।
जुष्टः᳚ । मि॒त्राय᳚ । वरु᳚णाय । वा॒यवे᳚ । दि॒वः । वि॒ष्ट॒म्भः । उ॒त्॑त॒मः ॥
जुष्टः᳚ । मि॒त्राय᳚ । वरु᳚णाय । वा॒यवे᳚ । दि॒वः । वि॒ष्ट॒म्भः । उ॒त्॑त॒मः ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वमिन्द्रस्य हार्दि हृदयंगमं हृदयभूतंवा सोमधानं सोमोनिधीयतेस्मिन्निति सोमधानः कलशः तमाविश प्रविश । तत्र दृष्टान्तः—समुद्रमिव यथा समुद्रं सिन्धवोनद्यः प्रविशन्ति तद्वत् । कीदृशः त्वं मित्राय वरुणाय वायवे तेभ्यो जुष्टः दिवोद्युलोकस्य विष्टंभः विष्टंभयिता स्थापयिता उत्तमः सर्वेषामुत्कृष्टतमः त्वं कलशमाविश ॥ १६ ॥
परिप्रेति द्वाविंशत्यृचं द्वैपदं षष्ठं सूक्तं यज्ञे सदस्यवस्थितहोत्रीयादिधिष्णयोपेताअग्नयो नामईश्वरपुत्राऋषयः विंशतिकाद्विपदाविशजः पवमानःसोमोदेवता । तथाचानुक्रान्तं— परिप्रद्भ्यधिकाग्नयोधिष्णयाऎश्वराद्वैपदमिति । गतोविनियोगः ।