स सु᳚न्वे॒ यो वसू᳚नां॒ यो रा॒यामा᳚ने॒ता य इळा᳚नाम् ।
सोमो॒ यः सु᳚क्षिती॒नाम् ॥
सोमो॒ यः सु᳚क्षिती॒नाम् ॥
पदपाठः (Word-by-word)
सः । सु॒न्वे॒ । यः । वसू᳚नाम् । यः । रा॒याम् । आ॒॑ने॒ता । यः । इळा᳚नाम् ।
सोमः᳚ । यः । सु॒॑क्षि॒ती॒नाम् ॥
सोमः᳚ । यः । सु॒॑क्षि॒ती॒नाम् ॥
सायणभाष्यम् (Sayana Commentary)
ससोमः सुन्वे अभिसुषुवे ऋत्विग्भिः । यः सोमः वसूनां धनानां आनेता यश्च रायां रांति प्रयच्छन्ति क्षीरादिकमिति रायोगावः तेषामानेता यश्च इळानामन्नानां च यश्च सोमः सुक्षितीनां सुनिवासानां शोभनमनुष्ययुक्तानां गृहाणां आनेता विद्यते सोभिषूतो- भूदिति ॥ १३ ॥