श्रवणम्

9.108.4 समानपद
येना॒ नव᳚ग्वो द॒ध्यङ्ङ᳚पोर्णु॒ते येन॒ विप्रा᳚स आपि॒रे ।
दे॒वानां᳚ सु॒म्ने अ॒मृत᳚स्य॒ चारु᳚णो॒ येन॒ श्रवां᳚स्यान॒शुः ॥
▶ पदपाठः (Word-by-word)
येन᳚ । नव᳚॑ग्वः । द॒ध्यङ् । अ॒प॒॑ऊ॒र्णु॒ते । येन᳚ । विप्रा᳚सः । आ॒पि॒रे ।
दे॒वाना᳚म् । सु॒म्ने । अ॒मृत᳚स्य । चारु᳚णः । येन᳚ । श्रवां᳚सि । आ॒न॒शुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नवग्वोनवनीयगतिः यद्वा नवभिर्मासैः सत्रस्यानुष्ठाता दध्यङ् एतन्नामकोंगिरा येन सोमेन पणिभिरपहृतानां गवां द्वारमपोर्णुते अपाच्छादयति विवृतमकार्षीत् विप्रासः तन्मुखाः सर्वे मेधाविनोंगिरसः येन वा सोमेनापिरे एतैरपहृतागाः आप्नुवन् । किंच देवानामिन्द्रादीनां सुम्ने सुखे यज्ञेन संजाते सति चारुणः कल्याणस्य अमृतस्योदकस्य संबन्धीनि श्रवांस्यन्नानि येन सोमेन यजमानाः आनशुः अनानिव्याप्नुवन् अलभन्त सत्वं देवानामम्रुतत्वाय शब्दायसइति पूर्वेण समन्वयः ॥ ४ ॥