श्रवणम्

9.108.7
आ सो᳚ता॒ परि᳚ षिञ्च॒ताश्वं॒ न स्तोम᳚म॒प्तुरं᳚ रज॒स्तुर᳚म् ।
व॒न॒क्र॒क्षमु᳚द॒प्रुत᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । सो॒त॒ । परि᳚ । सि॒ञ्च॒त॒ । अश्व᳚म् । न । स्तोम᳚म् । अ॒प्॑तुर᳚म् । र॒जः॒॑तुर᳚म् ।
व॒न॒॑क्र॒क्षम् । उ॒द॒॑प्रुत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः आसोत सोममभिषुणुत षुञ् अभिषवे लोटि छान्दसोविकरणस्य लुक् तप्तनप्तनथनाश्चेति तस्यतबादेशः । किंच परिषिंचत परितस्तं वसतीवर्यादिभिः सिंचत । कीदृशं अश्वंन अश्वमिव वेगिनं स्तोमं स्तव्यं अप्तुरं अन्तरिक्षस्थितानामुदकानांप्रेरकं रज- स्तुरं तेजसांच प्रेरकं वनक्रक्षं उदकानां वर्षकं यद्वा काष्ठेषु पात्रेषु विप्रकीर्णं उदप्रुतं उदके गच्छन्तं प्लवमानं सोममभिषुणुत अभिषिंचत ॥ ७ ॥