आ व᳚च्यस्व सुदक्ष च॒म्वो᳚ः सु॒तो वि॒शां वह्नि॒र्न वि॒श्पति᳚ः ।
वृ॒ष्टिं दि॒वः प᳚वस्व री॒तिम॒पां जिन्वा॒ गवि᳚ष्टये॒ धियः᳚ ॥
वृ॒ष्टिं दि॒वः प᳚वस्व री॒तिम॒पां जिन्वा॒ गवि᳚ष्टये॒ धियः᳚ ॥
पदपाठः (Word-by-word)
आ । व॒च्य॒स्व॒ । सु॒॑द॒क्ष॒ । च॒म्वोः᳚ । सु॒तः । वि॒शाम् । वह्निः᳚ । न । वि॒श्पतिः᳚ ।
वृ॒ष्टिम् । दि॒वः । प॒व॒स्व॒ । री॒तिम् । अ॒पाम् । जिन्व᳚ । गो॑इ᳚ष्टये । धियः᳚ ॥
वृ॒ष्टिम् । दि॒वः । प॒व॒स्व॒ । री॒तिम् । अ॒पाम् । जिन्व᳚ । गो॑इ᳚ष्टये । धियः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सुदक्ष सुबल सोम चम्वोरधिषवणफलकयोः सुतोभिषुतस्त्वं विशां प्रजानां वह्नि- र्वोढा विश्पतीराजेव सर्वासां प्रजानां वोढा त्वं आवच्यस्व आगच्छ कलशमापवस्व । व- चेर्गत्यर्थस्य व्यत्ययेन श्यनि रूपम् । किंच त्वं वृष्टिंवृष्यमाणामपामुदकानां रीतिं गतिं दिवोद्युलोकात् पवस्व कुरु । ततः गविष्टये गामात्मनइच्छते यजमानाय धियः कर्माणि जिन्व पूरय ॥ १० ॥