इन्द्रा᳚य सोम॒ पात᳚वे॒ नृभि᳚र्य॒तः स्वा᳚यु॒धो म॒दिन्त᳚मः ।
पव᳚स्व॒ मधु᳚मत्तमः ॥
पव᳚स्व॒ मधु᳚मत्तमः ॥
पदपाठः (Word-by-word)
इन्द्रा᳚य । सो॒म॒ । पात᳚वे । नृ॑भिः᳚ । य॒तः । सु॒॑आ॒यु॒धः । म॒दिन्॑त᳚मः ।
पव᳚स्व । मधु᳚मत्॑तमः ॥
पव᳚स्व । मधु᳚मत्॑तमः ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम मधुमत्तमः अतिशयेन माधुर्योपेतस्त्वं इन्द्राय पातवे पानार्थं पवस्व कलशे क्षर । कीदृशः नृभिः कर्मनेतृभिरृत्विग्भिः यतः संयतः स्वायुधः शोभनस्फ्यकपालाद्यायु- धोपेतः मदिन्तमः मादयितृतमः ॥ १५ ॥