यस्य᳚ ते पी॒त्वा वृ᳚ष॒भो वृ᳚षा॒यते॒॑स्य पी॒ता स्व॒र्विदः᳚ ।
स सु॒प्रके᳚तो अ॒भ्य᳚क्रमी॒दिषो॑च्छा॒ वाजं॒ नैत᳚शः ॥
स सु॒प्रके᳚तो अ॒भ्य᳚क्रमी॒दिषो॑च्छा॒ वाजं॒ नैत᳚शः ॥
पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । पी॒त्वा । वृ॒ष॒भः । वृ॒ष॒॑यते᳚ । अ॒स्य । पी॒ता । स्वः॒॑विदः᳚ ।
सः । सु॒॑प्रके᳚तः । अ॒भि । अ॒क्र॒मी॒त् । इषः᳚ । अच्छ᳚ । वाज᳚म् । न । एत᳚शः ॥
सः । सु॒॑प्रके᳚तः । अ॒भि । अ॒क्र॒मी॒त् । इषः᳚ । अच्छ᳚ । वाज᳚म् । न । एत᳚शः ॥
सायणभाष्यम् (Sayana Commentary)
वृषभः कामानां वर्षकइन्द्रः यस्य ते त्वां पीत्वा वृषायते वृषभइवाचरति । किंच सर्विदः सर्वस्य दर्शकस्यास्य ते तव पीता पानेसति सुप्रकेतः सुप्रज्ञः सइन्द्रः इषः शत्रू- णामन्नानि अभ्यक्रमीत् अभिक्रामति । तत्र दृष्टान्तः—वाजं नैतशः एतशः इत्यश्वनाम यथाश्वोवाजं संग्रामं अभिगच्छति तद्वत् ॥ २ ॥