श्रवणम्

7.18.1
त्वे ह॒ यत्पि॒तर᳚श्चिन्न इन्द्र॒ विश्वा᳚ वा॒मा ज᳚रि॒तारो॒ अस᳚न्वन् ।
त्वे गावः᳚ सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु᳚ देवय॒ते वनि᳚ष्ठः ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । ह॒ । यत् । पि॒तरः᳚ । चि॒त् । नः॒ । इ॒न्द्र॒ । विश्वा᳚ । वा॒मा । ज॒रि॒तारः᳚ । अस᳚न्वन् ।
त्वे इति᳚ । गावः᳚ । सु॒॑दुघाः᳚ । त्वे इति᳚ । हि । अश्वाः᳚ । त्वम् । वसु᳚ । दे॒व॒॑य॒ते । वनि᳚ष्ठः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रत्वेह त्वय्येव नोस्माकं पितरश्चित् पितरोपि जरितारः स्तोतारः सन्तः यद्यस्मात् कारणात् विश्वा विश्वानि वामा वामानि वननीयानि धनानि तथा च यास्कः-वामं वननीयंभवतीति । असन्वत् अलभन्त तस्माद्वयमपि धनकामास्त्वां स्तुमः तद्युक्तम् । हि यस्मात् कारणात् त्वे त्वयि गावः सुदुघाः दोग्धुं सुशकाः सन्ति त्वे त्वयि अश्वाः सन्ति त्वं बसु धनं देवयते देवं त्वामिच्छते यजमानाय वनिष्ठो दातृतमोभवसि ॥ १ ॥