राजे᳚व॒ हि जनि᳚भि॒ः क्षेष्ये॒वाव॒ द्युभि᳚र॒भि वि॒दुष्क॒विः सन् ।
पि॒शा गिरो᳚ मघव॒न्गोभि॒रश्वै᳚स्त्वाय॒तः शि᳚शीहि रा॒ये अ॒स्मान् ॥
पि॒शा गिरो᳚ मघव॒न्गोभि॒रश्वै᳚स्त्वाय॒तः शि᳚शीहि रा॒ये अ॒स्मान् ॥
पदपाठः (Word-by-word)
राजा᳚॑इव । हि । जनि᳚॑भिः । क्षेषि᳚ । ए॒व । अव᳚ । द्यु॑भिः᳚ । अ॒भि । वि॒दुः । क॒विः । सन् ।
पि॒शा । गिरः᳚ । म॒घ॒॑व॒न् । गोभिः᳚ । अश्वैः᳚ । त्वा॒॑य॒तः । शि॒शी॒हि॒ । रा॒ये । अ॒स्मान् ॥
पि॒शा । गिरः᳚ । म॒घ॒॑व॒न् । गोभिः᳚ । अश्वैः᳚ । त्वा॒॑य॒तः । शि॒शी॒हि॒ । रा॒ये । अ॒स्मान् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वं जनिभिर्जायाभिः राजेव द्युभिर्दीप्तिभिः सह क्षेष्येव निवसस्येव हीति पूरणः किं च हे मघवन् धनवन्निन्द्र विदुर्विद्वान् कविः क्रान्तकर्मा क्रान्तप्रज्ञोवा सन् गिरः स्तोतॄनस्मान् पिशा रूपेण हिरण्यादिना वा गोभिश्चाश्वैश्च अभि अभितो रक्ष त्वायतः त्वत्कामान- स्मान् राये शिशीहि धनार्थ च संस्करु ॥ २ ॥