पु॒रो॒ळा इत्तु॒र्वशो॒ यक्षु᳚रासीद्रा॒ये मत्स्या᳚सो॒ निशि᳚ता॒ अपी᳚व ।
श्रु॒ष्टिं च᳚क्रु॒र्भृग᳚वो द्रु॒ह्यव᳚श्च॒ सखा॒ सखा᳚यमतर॒द्विषू᳚चोः ॥
श्रु॒ष्टिं च᳚क्रु॒र्भृग᳚वो द्रु॒ह्यव᳚श्च॒ सखा॒ सखा᳚यमतर॒द्विषू᳚चोः ॥
पदपाठः (Word-by-word)
पु॒रो॒ळाः । इत् । तु॒र्वशः᳚ । यक्षुः᳚ । आ॒सी॒त् । रा॒ये । मत्स्या᳚सः । नि॑शि᳚ताः । अपि᳚॑इव ।
श्रु॒ष्टिम् । च॒क्रुः॒ । भृग᳚वः । द्रु॒ह्यवः᳚ । च॒ । सखा᳚ । सखा᳚यम् । अ॒त॒र॒त् । विषू᳚चोः ॥
श्रु॒ष्टिम् । च॒क्रुः॒ । भृग᳚वः । द्रु॒ह्यवः᳚ । च॒ । सखा᳚ । सखा᳚यम् । अ॒त॒र॒त् । विषू᳚चोः ॥
सायणभाष्यम् (Sayana Commentary)
यक्षुः यज्ञकुशलः यजेः सन्प्रत्ययोनतुसन्नन्तः अतोन द्विर्भावः पुरोळाः पुरोगामी पुरोदातावा इदिति पूरणः तुर्वशोनाम राजा आसीत् सतुर्वशः राये धनप्राप्तये इन्द्रस्य सखायं सुदासं जगाम मत्स्यासइव जले निहितामत्स्याइव निशिता नियन्त्रिता अपि भृगवोद्रुह्यवश्च योधाश्च सुदासस्तुर्वशस्यच श्रुष्टिं आशु प्राप्तिं चक्रुः विषूचोर्विष्वगंचतोरुभयोर्मध्ये सखा सुदासश्चेद्रः सखायं सुदासमतरत् अतारयत् तुर्वशं चावधीदित्यर्थः यद्वा यक्षुः यज्ञशीलः पुरोळाः पुरोदाता तुर्वशोनामराजासीत् तेन मत्स्यासो मत्स्यजनपदा निशिता बाधिता आसन् अपिच भृगवोद्रुह्यवश्च श्रुष्टिं सुखं तुर्वशस्य चक्रुः विषूचोर्विष्वगंचतोरुभयोर्मध्ये सखा तुर्वशस्यसखेन्द्रः सखायं राजानं अतरद- तारयत् ॥ ६ ॥