श्रवणम्

7.18.24
यस्य॒ श्रवो॒ रोद᳚सी अ॒न्तरु॒र्वी शी॒र्ष्णेशी᳚र्ष्णे विब॒भाजा᳚ विभ॒क्ता ।
स॒प्तेदिन्द्रं॒ न स्र॒वतो᳚ गृणन्ति॒ नि यु᳚ध्याम॒धिम᳚शिशाद॒भीके᳚ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । श्रवः᳚ । रोद᳚सी॒ इति᳚ । अ॒न्तः । उ॒र्वी इति᳚ । शी॒र्ष्णे॑शी᳚र्ष्णे । वि॒॑ब॒भाज᳚ । वि॒॑भ॒क्ता ।
स॒प्त । इत् । इन्द्र᳚म् । न । स्र॒वतः᳚ । गृ॒ण॒न्ति॒ । नि । यु॒ध्या॒म॒धिम् । अ॒शि॒शा॒त् । अ॒भीके᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्य सुदासः श्रवो यशः उर्वी विस्तीर्णे रोदसी द्यावापृथिव्यौ अन्तं विस्तीर्णयोर्द्यावापृथिर्व्योर्मध्ये वर्ततइत्यर्थः । यश्च सुदाः विभक्ताध- नस्य प्रदाता शीर्ष्णेशीर्ष्णे श्रेष्ठाय श्रेष्ठाय विबभाज धनं प्रददौ तं सुदासं सप्तेत् सप्तैव लोकाः इन्द्रं न इन्द्रमिव गृणन्ति स्तुवन्ति । किं च स्रवतो नद्यः अभीके युद्धे युध्यामधिं युध्यामधिनामकं सपत्नं नि अशिशात् न्यहन् ॥ २४ ॥