श्रवणम्

7.18.13
वि स॒द्यो विश्वा᳚ दृंहि॒तान्ये᳚षा॒मिन्द्र॒ः पुर॒ः सह᳚सा स॒प्त द᳚र्दः ।
व्यान᳚वस्य॒ तृत्स᳚वे॒ गयं᳚ भा॒ग्जेष्म᳚ पू॒रुं वि॒दथे᳚ मृ॒ध्रवा᳚चम् ॥
▶ पदपाठः (Word-by-word)
वि । स॒द्यः । विश्वा᳚ । दृं॒हि॒तानि᳚ । ए॒षा॒म् । इन्द्रः᳚ । पुरः᳚ । सह᳚सा । स॒प्त । द॒र्द॒रिति᳚ दर्दः ।
वि । आन᳚वस्य । तृत्स᳚वे । गय᳚म् । भा॒क् । जेष्म᳚ । पू॒रुम् । वि॒दथे᳚ । मृ॒ध्र॑वा᳚चम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां कवषादीनां विश्वा विश्वानि दृंहितानि दृढानि दुर्गाणि पुरोनगरीश्च तद्रक्षासाधनभूतान् सप्तप्रकारांश्च इन्द्रः सहसा बलेन सद्यएव विदर्दः विदारयामास । अपिच आनवस्य आनोः संबन्धिनोबलस्य आनोः पुत्रस्य वा गयं गृहं धनं वा तृत्सवे तृत्सुनामकाय राज्ञे तृत्सूनां गणाय वा विभाक् व्यभजत् अदादित्यर्थः इत्थमिन्द्रं स्तुवन्तोवयं विदथे युद्धे मृध्रवाचं बाधवाचं पूरुं मनुष्यं जेष्म जयेम ॥ १३ ॥