ई॒युर्गावो॒ न यव᳚सा॒दगो᳚पा यथाकृ॒तम॒भि मि॒त्रं चि॒तासः᳚ ।
पृश्नि᳚गाव॒ः पृश्नि᳚निप्रेषितासः श्रु॒ष्टिं च᳚क्रुर्नि॒युतो॒ रन्त᳚यश्च ॥
पृश्नि᳚गाव॒ः पृश्नि᳚निप्रेषितासः श्रु॒ष्टिं च᳚क्रुर्नि॒युतो॒ रन्त᳚यश्च ॥
पदपाठः (Word-by-word)
ई॒युः । गावः᳚ । न । यव᳚सात् । अगो᳚पाः । य॒था॒॑कृ॒तम् । अ॒भि । मि॒त्रम् । चि॒तासः᳚ ।
पृश्नि᳚॑गावः । पृश्नि᳚॑निप्रेषितासः । श्रु॒ष्टिम् । च॒क्रुः॒ । नि॒॑युतः᳚ । रन्त᳚यः । च॒ ॥
पृश्नि᳚॑गावः । पृश्नि᳚॑निप्रेषितासः । श्रु॒ष्टिम् । च॒क्रुः॒ । नि॒॑युतः᳚ । रन्त᳚यः । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
यदा इन्द्रः सुदासोरक्षणार्थं आगच्छति तदा पृश्निनिप्रेषितासः पृश्निनिप्रेषिताः पृश्न्या मात्रा नितरांप्रहिताः चितासः संहताः जानन्तोवा पृश्निगावः पृश्निवर्णागावोश्वा येषान्ते पृश्निगावोमरुतः यथाकृतमिन्द्रस्यसाहाय्यं करवामेति यथापूर्वं समयः कृतः तं समयमनतिक्रम्य मित्रमिन्द्रं यवसात् निमित्तार्थे पञ्चमी यवसं निमित्तीकृत्य अगोपाः गोपालेनारक्षिताः गावो न गावइव अभीयुः अभिजग्मुः रन्तयोर- ममाणाः नियुतोमरुतामश्वाश्च श्रुष्टिं शीघ्रप्राप्तिं चकुः तस्मिन्युद्धे मरुतः इन्द्रं साहाय्यार्थं अभ्यगच्छनित्यर्थः ॥ १० ॥