श्रवणम्

7.18.14 समानपद
नि ग॒व्यवो॑न᳚वो द्रु॒ह्यव᳚श्च ष॒ष्टिः श॒ता सु᳚षुपु॒ः षट् स॒हस्रा᳚ ।
ष॒ष्टिर्वी॒रासो॒ अधि॒ षड्दु᳚वो॒यु विश्वेदिन्द्र᳚स्य वी॒र्या᳚ कृ॒तानि᳚ ॥
▶ पदपाठः (Word-by-word)
नि । ग॒व्यवः᳚ । अन᳚वः । द्रु॒ह्यवः᳚ । च॒ । ष॒ष्टिः । श॒ता । सु॒सु॒पुः॒ । षट् । स॒हस्रा᳚ ।
ष॒ष्टिः । वी॒रासः᳚ । अधि᳚ । षट् । दु॒वः॒॑यु । विश्वा᳚ । इत् । इन्द्र᳚स्य । वी॒र्या᳚ । कृ॒तानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गव्यवो गोकामाः अनवः अनोः संबन्धिनः द्रुह्यवो द्रुह्योः संबंधिनश्च वीरासोवीराः षष्टिः शता शतानि सहस्राणीत्यर्थः । षट् सहस्रा सहस्राणि च षष्टिश्च अधि षट् अधिकाः षट् च दुवोयु दुवोयुवे चतुर्थीलुक् परिचरणकामाय सुदासे नमस्यति दुवस्यतीति परिचरणकर्म- सु पाठात् नि सुषुपुः नितरां शेरते निहताइत्यर्थः तान्येतानि विश्वा विश्वानि कृतानि कार्याणि इन्द्रस्येत् इन्द्रस्यैव वीर्या वीर्याणीति ॥ १४ ॥