आव॒दिन्द्रं᳚ य॒मुना॒ तृत्स᳚वश्च॒ प्रात्र᳚ भे॒दं स॒र्वता᳚ता मुषायत् ।
अ॒जास᳚श्च॒ शिग्र᳚वो॒ यक्ष᳚वश्च ब॒लिं शी॒र्षाणि᳚ जभ्रु॒रश्व्या᳚नि ॥
अ॒जास᳚श्च॒ शिग्र᳚वो॒ यक्ष᳚वश्च ब॒लिं शी॒र्षाणि᳚ जभ्रु॒रश्व्या᳚नि ॥
पदपाठः (Word-by-word)
आव᳚त् । इन्द्र᳚म् । य॒मुना᳚ । तृत्स᳚वः । च॒ । प्र । अत्र᳚ । भे॒दम् । स॒र्व॑ता᳚ता । मु॒षा॒य॒त् ।
अ॒जासः᳚ । च॒ । शिग्र᳚वः । यक्ष᳚वः । च॒ । ब॒लिम् । शी॒र्षाणि᳚ । ज॒भ्रुः॒ । अश्व्या᳚नि ॥
अ॒जासः᳚ । च॒ । शिग्र᳚वः । यक्ष᳚वः । च॒ । ब॒लिम् । शी॒र्षाणि᳚ । ज॒भ्रुः॒ । अश्व्या᳚नि ॥
सायणभाष्यम् (Sayana Commentary)
अत्रास्मिन् सर्वताता सर्वतातौ युद्धे यः इन्द्रोभेदं नास्तिकं भेदनामकं वा सुदासः शत्रुं प्रमुषायत् प्रामुष्णात् अवधीदित्यर्थः तमिन्द्रं यमुना आवत् अतोषयत् तत्तीरवासीजनः सर्वोप्यतोषयदित्यर्थः तृत्सवः तृत्सोः पुरुषाश्चावन् आवदित्येकवचनं बहुवचनान्ततया विपरिणतं सदत्रसंबध्यते । किंचाजासोऽजाः जनपदाः शिग्रवोजनपदाः यक्षवश्च जनपदाः अश्व्यान्यश्वसंबन्धीनि शीर्षाणि शिरांसि युद्धे हतानामश्वानां शिरांसीत्यर्थः बलिमुपहारं तस्मै इन्द्रायोपजभ्रुः उपजह्रः । यद्वा अश्व्यानि शीर्षाणि युद्धे गृहीतान् मुख्यानश्वा- निन्द्रायोपहारं जह्रुरित्यर्थः ॥ १९ ॥