प्र ये गृ॒हादम᳚मदुस्त्वा॒या प᳚राश॒रः श॒तया᳚तु॒र्वसि᳚ष्ठः ।
न ते᳚ भो॒जस्य᳚ स॒ख्यं मृ᳚ष॒न्ताधा᳚ सू॒रिभ्य᳚ः सु॒दिना॒ व्यु᳚च्छान् ॥
न ते᳚ भो॒जस्य᳚ स॒ख्यं मृ᳚ष॒न्ताधा᳚ सू॒रिभ्य᳚ः सु॒दिना॒ व्यु᳚च्छान् ॥
पदपाठः (Word-by-word)
प्र । ये । गृ॒हात् । अम᳚मदुः । त्वा॒॑या । प॒रा॒॑श॒रः । श॒त॑या᳚तुः । वसि᳚ष्ठः ।
न । ते॒ । भो॒जस्य᳚ । स॒ख्यम् । मृ॒ष॒न्त॒ । अध᳚ । सू॒रि॑भ्यः᳚ । सु॒॑दिना᳚ । वि । उ॒च्छा॒न् ॥
न । ते॒ । भो॒जस्य᳚ । स॒ख्यम् । मृ॒ष॒न्त॒ । अध᳚ । सू॒रि॑भ्यः᳚ । सु॒॑दिना᳚ । वि । उ॒च्छा॒न् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र पराशरः शतयातुः बहुरक्षाः बहूनि रक्षांसि बाधितुं यं कामयन्ते सशतयातुः बहूनां रक्षसां शातयिता वा शक्तिः वसिष्ठश्च एव- मादयोये ऋषयः त्वाया त्वदिच्छया गृहात् गृहं प्राप्य ल्यब्लोपे द्वितीयार्थे पञ्चमी । यद्वा गृहात् गृहे सप्तम्यर्थे पञ्चमी । प्राममदुः त्वां प्रतुष्टुवुः प्रकर्षेण तर्पितवन्तोवा ते पराशरप्रभृतयः भोजस्य भोजकस्य पालकस्य ते तव सख्यं सख्युः कर्म स्तोत्रं यजनं वा न मृषन्त न विस्मरन्ति मृषमर्षे मर्षोमर्षणं तन्नकुर्वन्तीत्यर्थः यतोन विस्मरंति अध अतो हेतोः सूरीभ्यः सूरीणां स्तोतॄणामेषां अत्र विभक्तिव्यत्ययः सुदिना सुदिनानि व्युच्छान् व्युच्छन्ति निवसन्ति उपगच्छन्तीत्यर्थः ॥ २१ ॥