श्रवणम्

7.18.11 समानपद
एकं᳚ च॒ यो विं᳚श॒तिं च᳚ श्रव॒स्या वै᳚क॒र्णयो॒र्जना॒न्राजा॒ न्यस्त᳚ः ।
द॒स्मो न सद्म॒न्नि शि᳚शाति ब॒र्हिः शूर॒ः सर्ग᳚मकृणो॒दिन्द्र᳚ एषाम् ॥
▶ पदपाठः (Word-by-word)
एक᳚म् । च॒ । यः । विं॒श॒तिम् । च॒ । श्र॒व॒स्या । वै॒क॒र्णयोः᳚ । जना᳚न् । राजा᳚ । नि । अस्त॒रित्यस्तः᳚᳚ ।
द॒स्मः । न । सद्म᳚न् । नि । शि॒शा॒ति॒ । ब॒र्हिः । शूरः᳚ । सर्ग᳚म् । अ॒कृ॒णो॒त् । इन्द्रः᳚ । ए॒षा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सुदासोराजा श्रवस्या यशसइच्छया अन्नेच्छया वा परुष्णयाः पार्श्वस्थयोः वैकर्णयोः जनपदयोर्विद्यमानान् एकं च विंशतिंचजनान् न्यस्तः आत्मना अहन् साराजा दस्मेन दर्शनीयो युवाऽध्वर्युरिव सद्मन् यज्ञगृहे बर्हिर्यस्मिन्युद्धे सपत्नान् निशुशाति नितरां लुनाति तस्मिन्युद्धे शूर इन्द्रः एषां मरुतां सगं प्रसवमकृणोत् सुदासः साहाय्यार्थमकरोत् ॥ ११ ॥