श्रवणम्

7.18.16
अ॒र्धं वी॒रस्य᳚ शृत॒पाम᳚नि॒न्द्रं परा॒ शर्ध᳚न्तं नुनुदे अ॒भि क्षाम् ।
इन्द्रो᳚ म॒न्युं म᳚न्यु॒म्यो᳚ मिमाय भे॒जे प॒थो व᳚र्त॒निं पत्य᳚मानः ॥
▶ पदपाठः (Word-by-word)
अ॒र्धम् । वी॒रस्य᳚ । शृ॒त॒॑पाम् । अ॒नि॒न्द्रम् । परा᳚ । शर्ध᳚न्तम् । नु॒नु॒दे॒ । अ॒भि । क्षाम् ।
इन्द्रः᳚ । म॒न्युम् । म॒न्यु॒॑भ्यः᳚ । मि॒मा॒य॒ । भे॒जे । प॒थः । व॒र्त॒निम् । पत्य᳚मानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रः अभिक्षां भूमिमभि भूम्यामित्यर्थः । वीरस्य वीर्ययुक्तस्य सुदासः अर्धं हिंसकं अर्धे र्हिंसाकर्मणोर्धशब्दस्य निष्पत्तिः अनिन्द्रं यस्यबु- द्धाविन्द्रोनास्यसावनिन्द्रः तमिन्द्रमगणयन्तमित्यर्थः श्रृतपां श्रृतस्य क्षीरादेः हविषः पातारं शर्धंतं उत्सहमानं परा नुनुदे किंच मन्युम्यो- मन्युकर्तुः मन्युना मिनतोहिंसतो वा शत्रोर्मन्युं क्रोधं मिमाय बबाधे अथ सुदासः शत्रुः पथो मार्गान् पत्यमानोगच्छन् वर्तनिं पलायन- मार्गं भेजे प्राप ॥ १६ ॥