श्रवणम्

7.18.9
ई॒युरर्थं॒ न न्य॒र्थं परु᳚ष्णीमा॒शुश्च॒नेद᳚भिपि॒त्वं ज᳚गाम ।
सु॒दास॒ इन्द्र᳚ः सु॒तुका{4}᳚ अ॒मित्रा॒नर᳚न्धय॒न्मानु᳚षे॒ वध्रि᳚वाचः ॥
▶ पदपाठः (Word-by-word)
ई॒युः । अर्थ᳚म् । न । नि॒॑अ॒र्थम् । परु᳚ष्णीम् । आ॒शुः । च॒न । इत् । अ॒भि॒॑पि॒त्वम् । ज॒गा॒म॒ ।
सु॒॑दासे᳚ । इन्द्रः᳚ । सु॒॑तुका᳚न् । अ॒मित्रा᳚न् । अर᳚न्धयत् । मानु᳚षे । वध्रि᳚॑वाचः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयेन्द्रः परुष्णयाः विच्छिन्नानि पर्वाणि सन्दधे ततः परुष्ण्या आपो यथापूर्वमर्थं गन्तव्यमेव प्रवणदेशं प्रति परुष्णीमीयुः आययांचक्रुः । इणूगतावितिधातोरन्तर्भावितण्यर्थाल्लिटि ईयुरिति अतोद्विकर्मकमाख्यातं न्यर्थं अगन्तव्यं परुष्णयाः पार्श्वयोः स्थितं निम्नं देशं प्रति परुष्णीं नेयुः आशुश्च न राज्ञः सुदासः अश्वोपि अभिपित्वमभिप्राप्तव्यमेव जगाम इन्द्रश्च सुदासे राज्ञे मानुषे लोके वध्रिवाचोजल्पकान् अमित्रान् शत्रून् सुतुकान् सुतोकान् तुक् तोकमित्यपत्यनामसु पाठात् अरन्धयत् बशमानयत् ॥ ९ ॥