इ॒मा उ᳚ त्वा पस्पृधा॒नासो॒ अत्र᳚ म॒न्द्रा गिरो᳚ देव॒यन्ती॒रुप᳚ स्थुः ।
अ॒र्वाची᳚ ते प॒थ्या᳚ रा॒य ए᳚तु॒ स्याम᳚ ते सुम॒तावि᳚न्द्र॒ शर्म᳚न् ॥
अ॒र्वाची᳚ ते प॒थ्या᳚ रा॒य ए᳚तु॒ स्याम᳚ ते सुम॒तावि᳚न्द्र॒ शर्म᳚न् ॥
पदपाठः (Word-by-word)
इ॒माः । ऊं॒ इति᳚ । त्वा॒ । प॒स्पृ॒धा॒नासः᳚ । अत्र᳚ । म॒न्द्राः । गिरः᳚ । दे॒व॒॑यन्तीः᳚ । उप᳚ । स्थुः॒ ।
अ॒र्वाची᳚ । ते॒ । प॒थ्या᳚ । रा॒यः । ए॒तु॒ । स्याम᳚ । ते॒ । सु॒॑म॒तौ । इ॒न्द्र॒ । शर्म᳚न् ॥
अ॒र्वाची᳚ । ते॒ । प॒थ्या᳚ । रा॒यः । ए॒तु॒ । स्याम᳚ । ते॒ । सु॒॑म॒तौ । इ॒न्द्र॒ । शर्म᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वा त्वां अत्र यज्ञे स्तोतरिवा प्रवर्तमानाः पस्पृधानासः स्पर्धमाना मन्द्राः मोदमानाः इमागिरः स्तुतयः उपस्थुः उपतिष्ठन्ति । अतस्ते तव रायोधनस्य पथ्या सृतिः अर्वाची अस्मदभिमुखी एतु गच्छतु । हे इन्द्र वयं च ते सुमतौ सुष्टुतौ वर्तमानाः शर्मन् शर्मणि सुखे स्याम भूयास्म ॥ ३ ॥