अ॒वि॒ष्टना᳚ पैजव॒नस्य॒ केतं᳚ दू॒णाशं᳚ क्ष॒त्रम॒जरं᳚ दुवो॒यु ॥
पदपाठः (Word-by-word)
अ॒वि॒ष्टन᳚ । पै॒ज॒॑व॒नस्य᳚ । केत᳚म् । दुः॒॑नश᳚म् । क्ष॒त्रम् । अ॒जर᳚म् । दु॒वः॒॑यु ॥
सायणभाष्यम् (Sayana Commentary)
हे नरो नेतारो महतः इमं सुदासं राजानं सुदासो राज्ञः पितरं दिवोदासं न दिवोदासमिव दिवोदासइतिपिजनवनस्यैवनामान्तरं अनु सश्चत अनु सेवध्वम् । किं च दुवोयु परिचरणकामस्य षष्ठ्यालुक् पैजवनस्य पिजवनपुत्रस्य सुदासः केतं मंत्रं गृहं वा अविष्टन रक्षत । अपि चास्य सुदासः क्षत्रं बलं दूणाशं दुर्नशं अविनाशि अजरं अशिथिलं चास्तु ॥ २५ ॥
यस्तिग्मशृंग इत्येकादशर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं तथाचानुक्रान्तं-यस्तिग्मशृंगएकादशेति । आभिप्लविके पञ्चमेहनि एतन्निविद्धानं सूत्रितंच-कयाशुभायस्तिग्मशृंगइति मध्यन्दिनइति । विषुवति निष्केवल्यशस्त्रेप्येतत्सूक्तं सूत्रितं च-यस्तिग्मशृंगोभित्यंमे- षमिति । महाव्रते निष्केवल्येप्येतत्सूक्तं सूत्रितं च-यस्तिग्मशृंगोवृषभोनभीम उग्रोजज्ञेवीर्यायस्वधावानिति । आयुष्कामेष्ट्यां मातेअ- स्यामितीन्द्रस्य त्रातुर्याज्या सूत्रितं च-मातेअस्यांसहसावन्परिष्टौ पाहिनोअग्नेपायुभिरिति ।