अर्णां᳚सि चित्पप्रथा॒ना सु॒दास॒ इन्द्रो᳚ गा॒धान्य᳚कृणोत्सुपा॒रा ।
शर्ध᳚न्तं शि॒म्युमु॒चथ᳚स्य॒ नव्य॒ः शापं॒ सिन्धू᳚नामकृणो॒दश᳚स्तीः ॥
शर्ध᳚न्तं शि॒म्युमु॒चथ᳚स्य॒ नव्य॒ः शापं॒ सिन्धू᳚नामकृणो॒दश᳚स्तीः ॥
पदपाठः (Word-by-word)
अर्णां᳚सि । चि॒त् । प॒प्र॒था॒ना । सु॒॑दासे᳚ । इन्द्रः᳚ । गा॒धानि᳚ । अ॒कृ॒णो॒त् । सु॒॑पा॒रा ।
शर्ध᳚न्तम् । शि॒म्युम् । उ॒चथ᳚स्य । नव्यः᳚ । शाप᳚म् । सिन्धू᳚नाम् । अ॒कृ॒णो॒त् । अश᳚स्तीः ॥
शर्ध᳚न्तम् । शि॒म्युम् । उ॒चथ᳚स्य । नव्यः᳚ । शाप᳚म् । सिन्धू᳚नाम् । अ॒कृ॒णो॒त् । अश᳚स्तीः ॥
सायणभाष्यम् (Sayana Commentary)
नव्यः स्तुत्यइन्द्रः अर्णांसि शत्रुभिर्विदारितायाः परुष्णया उदकानि पप्रथाचित् प्रथमानान्यपि सुदासे राज्ञे गाधानि सुपारा सुपाराणि पारयितुं तर्तुं योग्यानि चाकृणोत् अकरोत् अपि च शर्धन्तं उत्साहमानं शिम्युं बोधमानं शापं विश्वरूपोद्धवमात्मनोभिशापं अशस्तीर- भिशस्तीश्च उचथस्य स्तोतुः सिन्धूनां नदीनामकृणोदकरोत् ॥ ५ ॥