श्रवणम्

7.18.12
अध᳚ श्रु॒तं क॒वषं᳚ वृ॒द्धम॒प्स्वनु᳚ द्रु॒ह्युं नि वृ᳚ण॒ग्वज्र᳚बाहुः ।
वृ॒णा॒ना अत्र᳚ स॒ख्याय᳚ स॒ख्यं त्वा॒यन्तो॒ ये अम᳚द॒न्ननु᳚ त्वा ॥
▶ पदपाठः (Word-by-word)
अध᳚ । श्रु॒तम् । क॒वष᳚म् । वृ॒द्धम् । अ॒प्॑सु । अनु᳚ । द्रु॒ह्युम् । नि । वृ॒ण॒क् । वज्र᳚॑बाहुः ।
वृ॒णा॒नाः । अत्र᳚ । स॒ख्याय᳚ । स॒ख्यम् । त्वा॒॑यन्तः᳚ । ये । अम᳚दन् । अनु᳚ । त्वा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधापिच वज्रबाहुरिन्द्रः श्रुतं कवषं च वृद्धं च त्रीन् तथा द्रुह्युं अनु आनुपूर्व्येण अप्सूदकेषु निवृणक् न्यमज्जयदित्यर्थः अत्रास्मिन्नवसरे ये त्वायन्तः त्वत्कामाः त्वा त्वां अन्वमदन् अस्तवन् ते सखायः सख्याय सख्यार्थं त्वां वृणानाः सख्यं लेभिरइति शेषः ॥ १२ ॥