द्वे नप्तु᳚र्दे॒वव᳚तः श॒ते गोर्द्वा रथा᳚ व॒धूम᳚न्ता सु॒दासः᳚ ।
अर्ह᳚न्नग्ने पैजव॒नस्य॒ दानं॒ होते᳚व॒ सद्म॒ पर्ये᳚मि॒ रेभ᳚न् ॥
अर्ह᳚न्नग्ने पैजव॒नस्य॒ दानं॒ होते᳚व॒ सद्म॒ पर्ये᳚मि॒ रेभ᳚न् ॥
पदपाठः (Word-by-word)
द्वे इति᳚ । नप्तुः᳚ । दे॒व॑व᳚तः । श॒ते इति᳚ । गोः । द्वा । रथा᳚ । व॒धू॑म᳚न्ता । सु॒॑दासः᳚ ।
अर्ह᳚न् । अ॒ग्ने॒ । पै॒ज॒॑व॒नस्य᳚ । दान᳚म् । होता᳚॑इव । सद्म᳚ । परि᳚ । ए॒मि॒ । रेभ᳚न् ॥
अर्ह᳚न् । अ॒ग्ने॒ । पै॒ज॒॑व॒नस्य᳚ । दान᳚म् । होता᳚॑इव । सद्म᳚ । परि᳚ । ए॒मि॒ । रेभ᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
देववतोराज्ञोनप्तुः पौत्रस्य पैजवनस्य पिजवनपुत्रस्य सुदासोराज्ञो गोर्गवां द्वेशते वधूमन्ता वधूसंयुक्तौ द्वा द्वौ रथा रथौ च देयं दानं दानभूतान् रेभन् इन्द्रः स्तुवन् अतएव अर्हन् योग्योहं वसिष्ठः हे अग्ने सद्म यज्ञगृहं होतेव वषट् कर्तेव पर्येमि अत्राग्नेः संबोधनं सर्व- देवमुख्यत्वप्रतिपादनार्थं नत् देवतात्वज्ञापनार्थं अतस्तद्देवताकत्वादस्यसूक्तस्य ॥ २२ ॥