च॒त्वारो᳚ मा पैजव॒नस्य॒ दाना॒ः स्मद्दि᳚ष्टयः कृश॒निनो᳚ निरे॒के ।
ऋ॒ज्रासो᳚ मा पृथिवि॒ष्ठाः सु॒दास᳚स्तो॒कं तो॒काय॒ श्रव᳚से वहन्ति ॥
ऋ॒ज्रासो᳚ मा पृथिवि॒ष्ठाः सु॒दास᳚स्तो॒कं तो॒काय॒ श्रव᳚से वहन्ति ॥
पदपाठः (Word-by-word)
च॒त्वारः᳚ । मा॒ । पै॒ज॒॑व॒नस्य᳚ । दानाः᳚ । स्मत्॑दि᳚ष्टयः । कृ॒श॒निनः᳚ । नि॒रे॒के ।
ऋ॒ज्रासः᳚ । मा॒ । पृ॒थि॒वि॒॑स्थाः । सु॒॑दासः᳚ । तो॒कम् । तो॒काय᳚ । श्रव᳚से । व॒ह॒न्ति॒ ॥
ऋ॒ज्रासः᳚ । मा॒ । पृ॒थि॒वि॒॑स्थाः । सु॒॑दासः᳚ । तो॒कम् । तो॒काय᳚ । श्रव᳚से । व॒ह॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
पैजवनस्य पिजवनपुत्रस्य सुदासोराज्ञः स्मद्दिष्टयः प्रशस्तातिसर्जनश्रद्धादिदानांगयुक्ताः कृशनिनो हिरण्यालंकारवन्तः निरेके दुर्गतौ सत्यां ऋज्रासो ऋजुगामिनः पृथिविष्ठाः पृथिव्यां सुप्रतिष्ठिताः दानाः देयभूताश्चत्वारोश्वाः तोकं पुत्रवत्पालनीयं मां वसिष्ठं रथे स्थितं तोकाय तोकस्य पुत्रस्य षष्ठ्यर्थे चतुर्थी श्रवसे अन्नाय यशसे वा वहन्ति पुनर्मेतिपूरणः ॥ २३ ॥