इन्द्रे᳚णै॒ते तृत्स᳚वो॒ वेवि᳚षाणा॒ आपो॒ न सृ॒ष्टा अ᳚धवन्त॒ नीची᳚ः ।
दु॒र्मि॒त्रासः᳚ प्रकल॒विन्मिमा᳚ना ज॒हुर्विश्वा᳚नि॒ भोज᳚ना सु॒दासे᳚ ॥
दु॒र्मि॒त्रासः᳚ प्रकल॒विन्मिमा᳚ना ज॒हुर्विश्वा᳚नि॒ भोज᳚ना सु॒दासे᳚ ॥
पदपाठः (Word-by-word)
इन्द्रे᳚ण । ए॒ते । तृत्स᳚वः । वेवि᳚षाणाः । आपः᳚ । न । सृ॒ष्टाः । अ॒ध॒व॒न्त॒ । नीचीः᳚ ।
दुः॒॑मि॒त्रासः᳚ । प्र॒क॒ल॒॑वित् । मिमा᳚नाः । ज॒हुः । विश्वा᳚नि । भोज᳚ना । सु॒॑दासे᳚ ॥
दुः॒॑मि॒त्रासः᳚ । प्र॒क॒ल॒॑वित् । मिमा᳚नाः । ज॒हुः । विश्वा᳚नि । भोज᳚ना । सु॒॑दासे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
कदाचिदिन्द्रेण रक्षिताअपि अन्यदा तेनैव बाध्यन्ते एते तृत्सवः दुर्मित्रासो दुष्टमित्राः प्रकलवित् अजानन्तः इन्द्रेण वेविषाणाः युद्धार्थं संगताः सृष्टाः पलायनार्थं उद्युक्ताः नीचीर्नीचीना आपोन आपइव अधवन्त अधावन्त ततोमिमानाः सुदासा बाध्यमाना विश्वा विश्वानि भोजना भोग्यानि धनानि सुदासे राज्ञे जहः ॥ १५ ॥