आ॒ध्रेण᳚ चि॒त्तद्वेकं᳚ चकार सिं॒ह्यं᳚ चि॒त्पेत्वे᳚ना जघान ।
अव᳚ स्र॒क्तीर्वे॒श्या᳚वृश्च॒दिन्द्र॒ः प्राय᳚च्छ॒द्विश्वा॒ भोज᳚ना सु॒दासे᳚ ॥
अव᳚ स्र॒क्तीर्वे॒श्या᳚वृश्च॒दिन्द्र॒ः प्राय᳚च्छ॒द्विश्वा॒ भोज᳚ना सु॒दासे᳚ ॥
पदपाठः (Word-by-word)
आ॒ध्रेण᳚ । चि॒त् । तत् । ऊं॒ इति᳚ । एक᳚म् । च॒का॒र॒ । सिं॒ह्य᳚म् । चि॒त् । पेत्वे᳚न । ज॒घा॒न॒ ।
अव᳚ । स्र॒क्तीः । वे॒श्या᳚ । अ॒वृ॒श्च॒त् । इन्द्रः᳚ । प्र । अ॒य॒च्छ॒त् । विश्वा᳚ । भोज᳚ना । सु॒॑दासे᳚ ॥
अव᳚ । स्र॒क्तीः । वे॒श्या᳚ । अ॒वृ॒श्च॒त् । इन्द्रः᳚ । प्र । अ॒य॒च्छ॒त् । विश्वा᳚ । भोज᳚ना । सु॒॑दासे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रः तत् तदा आध्रेणचित् दरिद्रेणापि सुदासे एकं मुख्यं दानकर्म चकार कारयामास । सिंह्यं चित् प्रवयाः सिंहः सिंह्यः तमपि पेत्वेन छागेन जघान घातयामास वेश्या वेशी सूची तया स्रक्तीः यूपादेरश्रीनवावृश्चत् अववृक्तवान् वेश्यादेः कृत्यं सूच्यैवाकरोदित्यर्थः तान्ये- तानि त्रीणि कर्माणि असंभावितानीति नाशंकनीयानि इन्द्रस्य महिम्नोधिकत्वात् विश्वा विश्वानि भोजना भोजनानि भोग्यानि धनानि सुदासे राज्ञे प्रायच्छददाच्च ॥ १७ ॥