श्रवणम्

7.18.20
न त᳚ इन्द्र सुम॒तयो॒ न रायः᳚ सं॒चक्षे॒ पूर्वा᳚ उ॒षसो॒ न नूत्ना᳚ः ।
देव᳚कं चिन्मान्यमा॒नं ज᳚घ॒न्थाव॒ त्मना᳚ बृह॒तः शम्ब᳚रं भेत् ॥
▶ पदपाठः (Word-by-word)
न । ते॒ । इ॒न्द्र॒ । सु॒॑म॒तयः᳚ । न । रायः᳚ । स॒म्॑चक्षे᳚ । पूर्वाः᳚ । उ॒षसः᳚ । न । नूत्नाः᳚ ।
देव᳚कम् । चि॒त् । मा॒न्य॒मा॒नम् । ज॒घ॒न्थ॒ । अव᳚ । त्मना᳚ । बृ॒ह॒तः । शम्ब᳚रम् । भे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव पूर्वाः पुरातनाः सुमतयः शोभनमतयो रायोधनानि च उषसोन उषसइव न संचक्षे संख्यातुं न शक्याःन नूत्नाः नूतनाश्च सुमतयोरायश्च न संचक्षे । किं च त्वं मान्यमानं मन्यमानस्य पुत्रं देवकं देवकनामानं शत्रुं जघन्थ अवधीः । त्मना स्वयमेव बृहतो महतः शैलात् शंबरं च अवभेत् अवाभैत्सीरिति ॥ २० ॥