दु॒रा॒ध्यो॒३॒᳚ अदि᳚तिं स्रे॒वय᳚न्तो॑चे॒तसो॒ वि ज᳚गृभ्रे॒ परु᳚ष्णीम् ।
म॒ह्नावि᳚व्यक्पृथि॒वीं पत्य᳚मानः प॒शुष्क॒विर᳚शय॒च्चाय᳚मानः ॥
म॒ह्नावि᳚व्यक्पृथि॒वीं पत्य᳚मानः प॒शुष्क॒विर᳚शय॒च्चाय᳚मानः ॥
पदपाठः (Word-by-word)
दुः॒॑आ॒ध्यः᳚ । अदि᳚तिम् । स्रे॒वय᳚न्तः । अ॒चे॒तसः᳚ । वि । ज॒गृ॒भ्रे॒ । परु᳚ष्णीम् ।
म॒ह्ना । अ॒वि॒व्य॒क् । पृ॒थि॒वीम् । पत्य᳚मानः । प॒शुः । क॒विः । अ॒श॒य॒त् । चाय᳚मानः ॥
म॒ह्ना । अ॒वि॒व्य॒क् । पृ॒थि॒वीम् । पत्य᳚मानः । प॒शुः । क॒विः । अ॒श॒य॒त् । चाय᳚मानः ॥
सायणभाष्यम् (Sayana Commentary)
दुराध्यो दुष्टाभिसंधयोऽचेतसो मन्दमतयः सुदासः शत्रवः अदितिमदीनां परुष्णीं नदीं स्रेवयन्तः वि जगृभ्रे । विग्रहः कूलभेदः तमकुर्वन् परुष्ण्याः कूलं बिभिदुरित्यर्थः ससुदासः मह्ना इन्द्रप्रसादलब्धेन महिम्ना पृथिवीमविव्यक् तदैव व्याप्नोत् न पुनरुदकेनाबाध्यत ततः सुदासः शत्रुः चायमानः चयमानस्य पुत्रः कविः कविनामा पत्यमानः पाल्यमानः पशुः यागे संज्ञप्तः पशुरिव आशयत् आशेत सुदासानि- हतइत्यर्थः ॥ ८ ॥