श्रवणम्

7.18.4
धे॒नुं न त्वा᳚ सू॒यव᳚से॒ दुदु᳚क्ष॒न्नुप॒ ब्रह्मा᳚णि ससृजे॒ वसि᳚ष्ठः ।
त्वामिन्मे॒ गोप᳚तिं॒ विश्व᳚ आ॒हा न॒ इन्द्र᳚ः सुम॒तिं ग॒न्त्वच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
धे॒नुम् । न । त्वा॒ । सु॒॑यव᳚से । दुधु᳚क्षन् । उप᳚ । ब्रह्मा᳚णि । स॒सृ॒जे॒ । वसि᳚ष्ठः ।
त्वाम् । इत् । मे॒ । गो॑प᳚तिम् । विश्वः᳚ । आ॒ह॒ । आ । नः॒ । इन्द्रः᳚ । सु॒॑म॒तिम् । ग॒न्तु॒ । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र सुयवसे सुतृणे गोष्ठे वर्तमानां धेनुं न धेनुमिव सुहविष्के यज्ञगृहे दृष्टान्तसामर्थ्याद्दार्ष्टान्तिकलाभः वर्तमानं त्वां दुदुक्षन् संहितायां व्यत्ययेन दकारः कामान् दोग्धुमिच्छन् वसिष्ठः ब्रह्माणि वत्सस्थानीयानि स्तोत्राणि उपससृजे उपसृजते मे मम विश्वः सर्वोजनः त्वामित् त्वामेव गोपतिं गवां स्वामिनमाह ब्रवीति । अथ परोक्षस्तुतिः नोस्माकं सुमतिं सुष्टुतिं अच्छाभि इन्द्रआगन्तु आगच्छतु ॥ ४ ॥