परि॒ प्र ध॒न्वेन्द्रा᳚य सोम स्वा॒दुर्मि॒त्राय᳚ पू॒ष्णे भगा᳚य ॥
पदपाठः (Word-by-word)
परि᳚ । प्र । ध॒न्व॒ । इन्द्रा᳚य । सो॒म॒ । स्वा॒दुः । मि॒त्राय᳚ । पू॒ष्णे । भगा᳚य ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम स्वादुः स्वादुरसः त्वं इन्द्राय मित्राय पूष्णे भगाय एतेभ्योदेवेभ्यः परिप्रध- न्व परितः पात्रेषु क्षर ॥ १ ॥