श्रवणम्

9.109.12
शिशुं᳚ जज्ञा॒नं हरिं᳚ मृजन्ति प॒वित्रे॒ सोमं᳚ दे॒वेभ्य॒ इन्दु᳚म् ॥
▶ पदपाठः (Word-by-word)
शिशु᳚म् । ज॒ज्ञा॒नम् । हरि᳚म् । मृ॒ज॒न्ति॒ । प॒वित्रे᳚ । सोम᳚म् । दे॒वेभ्यः᳚ । इन्दु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

शिशुमपां पुत्रभूतं जज्ञानं जायमानं हरिं हरितवर्णं इन्दुं दीप्तं सोमं देवेभ्योदेवार्थं पवित्रे मृजन्ति ऋत्विजोमार्जयन्ति ॥ १२ ॥