इन्दु᳚ः पुना॒नः प्र॒जामु᳚रा॒णः कर॒द्विश्वा᳚नि॒ द्रवि᳚णानि नः ॥
पदपाठः (Word-by-word)
इन्दुः᳚ । पु॒ना॒नः । प्र॒॑जाम् । उ॒रा॒णः । कर᳚त् । विश्वा᳚नि । द्रवि᳚णानि । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
पुनानः पूयमानः । उराणः उरुकुर्वाणइतियास्कः । देवान् बहुकुर्वाणः इन्दुः सोमः नो स्माकं प्रजामपत्यादिकां विश्वानि व्याप्तानि द्रविणानि धनानि करत् करोतु । करोतेर्लङि रूपं ॥ ९ ॥