श्रवणम्

9.109.14
बिभ᳚र्ति॒ चार्विन्द्र᳚स्य॒ नाम॒ येन॒ विश्वा᳚नि वृ॒त्रा ज॒घान᳚ ॥
▶ पदपाठः (Word-by-word)
बिभ᳚र्ति । चारु᳚ । इन्द्र᳚स्य । नाम᳚ । येन᳚ । विश्वा᳚नि । वृ॒त्रा । ज॒घान᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमः चारु कल्याणं इन्द्रस्य नाम शरीरं बिभर्ति धारयति पोषयति । तेन शरी- रेण इन्द्रः विश्वानि सर्वाणि वृत्रा वृत्राणि पापरूपाणि रक्षांसि जघान हतवान् ॥ १४ ॥