श्रवणम्

9.109.16
प्र सु᳚वा॒नो अ᳚क्षाः स॒हस्र᳚धारस्ति॒रः प॒वित्रं॒ वि वार॒मव्य᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र । सु॒वा॒नः । अ॒क्षा॒रिति᳚ । स॒हस्र᳚॑धारः । ति॒रः । प॒वित्र᳚म् । वि । वार᳚म् । अव्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवानोभिषूयमाणः अतएव सहस्रधारः बहुधारायुक्तः सोमः अव्यं अविभवं वारं वालं पवित्रं तिरः व्यवधायकं कुर्वन् प्र अक्षाः विविधं प्रक्षरन्ति क्षरतेर्लुङि रूपं ॥ १६ ॥