तं ते᳚ सो॒तारो॒ रसं॒ मदा᳚य पु॒नन्ति॒ सोमं᳚ म॒हे द्यु॒म्नाय᳚ ॥
पदपाठः (Word-by-word)
तम् । ते॒ । सो॒तारः᳚ । रस᳚म् । मदा᳚य । पु॒नन्ति᳚ । सोम᳚म् । म॒हे । द्यु॒म्नाय᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सोतारः अभिषोतारः ऋत्विजः हे सोम ते तव स्वभूतं रसं मदाय मदार्थं पुनन्ति । तदेवोच्यते—महे महते द्युम्नाय द्युम्नं द्योततेर्यशोवान्नंवा । अन्नाय यशसेवा सोमं पुनन्ति शोधयन्ति । यद्वा सोममभिषूयमाणं तं रसं पुनन्तीति एकवाक्यतया योजनीयं ॥ ११ ॥