पव᳚स्व सोम॒ क्रत्वे॒ दक्षा॒याश्वो॒ न नि॒क्तो वा॒जी धना᳚य ॥
पदपाठः (Word-by-word)
पव᳚स्व । सो॒म॒ । क्रत्वे᳚ । दक्षा᳚य । अश्वः᳚ । न । नि॒क्तः । वा॒जी । धना᳚य ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम अश्वोन अश्वइव निक्तः वसतीवरीभिरद्भिः निक्तः वाजी वेगवांस्त्वं क्रत्वे क्रतवे प्रज्ञानाय दक्षाय बलाय धनाय धनार्थं च पवस्व क्षर ॥ १० ॥