श्रवणम्

9.109.19
अस᳚र्जि वा॒जी ति॒रः प॒वित्र॒मिन्द्रा᳚य॒ सोमः᳚ स॒हस्र᳚धारः ॥
▶ पदपाठः (Word-by-word)
अस᳚र्जि । वा॒जी । ति॒रः । प॒वित्र᳚म् । इन्द्रा᳚य । सोमः᳚ । स॒हस्र᳚॑धारः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजी बलवान् वेगवान्वा पवित्रं तिरः तिरस्कुर्वन् सहस्रधारोबहुधारः सोमः इन्द्राये- न्द्रार्थं असर्जि सृज्यते ॥ १९ ॥