शु॒क्रः प᳚वस्व दे॒वेभ्य᳚ः सोम दि॒वे पृ᳚थि॒व्यै शं च᳚ प्र॒जायै᳚ ॥
पदपाठः (Word-by-word)
शु॒क्रः । प॒व॒स्व॒ । दे॒वेभ्यः᳚ । सो॒म॒ । दि॒वे । पृ॒थि॒व्यै । शम् । च॒ । प्र॒॑जायै᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम शुक्रोदीप्तस्त्वं देवेभ्योदेवार्थं पवस्व क्षर । किंच दिवे पृथिव्यैच द्यावापृथि- वीभ्यांच ततः प्रजायै प्रजाभ्यश्च शं सुखं च कुरु ॥ ५ ॥